|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.68. अध्यायः 068
Mahabharata - Bhishma Parva - Chapter Topics
भीष्मेण दुर्योधनंप्रति ब्रह्मर्षिकृतकृष्णस्तवकथनम् ॥ 1 ॥ तथा कृष्णस्य पाण्डवेषु प्रीतिकथनपूर्वकं तैः सह शमविधानम् ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text
भीष्म उवाच। 6-68-0x(4142)(41720)
स्तवं वै ब्रह्मसंयुक्तं शृणु कृष्णस्य भारत।
ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि ॥ 6-68-1(41721)
साध्यानामपि देवानां देवदेवेश्वरः प्रभुः ।
लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत् ॥ 6-68-2(41722)
भूतं भव्यं भविष्यच्च मार्कण्डेयोऽभ्युवाच ह।
यज्ञं त्वां चैव यज्ञानां तपश्च तपसामपि ॥ 6-68-3(41723)
देवानामपि देवं च त्वामाह भगवान्भृगुः ।
पुराणां चैव परमं विष्णो रूपं तवेति च ॥ 6-68-4(41724)
वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा।
देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत् ॥ 6-68-5(41725)
पूर्वे प्रजानिसर्गे च दक्षमाहुः प्रजापतिम्।
स्रष्टारं सर्वभूतानामङ्गिरास्त्वां तथाऽब्रवीत् ॥ 6-68-6(41726)
अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम् ।
देवास्त्वत्संभवाश्चैव देवलस्त्वसितोऽब्रवीत् ॥ 6-68-7(41727)
शिरसा ते दिव्यं व्याप्तं बाहुभ्यां पृथिवी तथा ।
जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः ॥ 6-68-8(41728)
एवं त्वामभिजानन्ति तपसा भाविता नराः।
आत्मदर्शनतृप्तानामृषीणां चासि सत्तमः ॥ 6-68-9(41729)
राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम् ।
सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन ॥ 6-68-10(41730)
इति नित्यं योगविर्द्भिर्भगवान्पुरुषोत्तमः।
सनत्कुमारप्रमुखैः स्तूयतेऽभ्यर्च्यते हरिः ॥ 6-68-11(41731)
एष ते विस्तरस्तात संक्षेपश्च प्रकीर्तितः ।
केशवस्य यथा तत्त्वं सुप्रीतो भज केशवम् ॥ 6-68-12(41732)
सञ्जय उवाच। 6-68-13x(4143)
पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव।
केशवं बहुमेने स पाण्डवांश्च महारथान् ॥ 6-68-13(41733)
तमब्रवीन्महाराज भीष्मः शान्तनवः पुनः ।
माहात्म्यं ते श्रुतं राजन्केशवस्य महात्कमनः ॥ 6-68-14(41734)
नरस्य च यथातत्त्वं यन्मां त्वं पृच्छसे नृप।
यदर्थं नृषु संभूतौ नरानारायणावृषी ॥ 6-68-15(41735)
अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ ।
यथा च पाण्डवा राजन्नवध्या युधि कस्यचित् ॥ 6-68-16(41736)
प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु ।
तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः ॥ 6-68-17(41737)
पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी ।
नरानारायणौ देवाववज्ञाय नशिष्यसि ॥ 6-68-18(41738)
एवमुक्त्वा तव पिता तूष्णीमासीद्विशांपते ।
व्यसर्जयच्च राजानं शयनं च विवेश ह ॥ 6-68-19(41739)
राजा च शिबिरं प्रायात्प्रणिपत्य महात्मने ।
शिश्ये च शयने शुभ्रे रात्रिं तां भरतर्षभ ॥ ॥ 6-68-20(41740)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टषष्टितमोऽध्यायः ॥ ॥ विश्वोपाख्यानं समाप्तम् ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|